|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.105. अध्यायः 105
Mahabharata - Vana Parva - Chapter Topics
ब्रह्मणा देवान्प्रति भगीरथेन समुद्रपूरणकथनम् ॥ 1 ॥ युधिष्ठिरेण तत्प्रकारं पृष्टेन लोमशेन तदुपोद्धाततया सगरस्य भार्याद्वये पुत्रलाभप्रकाऱकथनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
लोमश उवाच। 3-105-0x(2047)(20161)
तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः।
`निर्ह्रादिन्या गिरा राजन्देवानाश्वासयंस्तदा' ॥ 3-105-1(20162)
गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम्।
महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः ॥ 3-105-2(20163)
ज्ञातींश्च कारणं कृत्वा महाराजो भगीथः।
`पूरयिष्यति तोयौघैः समुद्रं निधिमम्भसाम्' ॥ 3-105-3(20164)
पितामहवचः श्रुत्वा सर्वे विबुधसत्तमाः।
कालयोगं प्रतीक्षन्तो जग्मुश्चापि यथागतम् ॥ 3-105-4(20165)
युधिष्ठिर उवाच। 3-105-5x(2048)
कथं वै ज्ञातयोब्रह्मन्कारणं चात्र किं मुने।
कथं समुद्रः पूर्णश्च भगीरथपरिश्रमात् ॥ 3-105-5(20166)
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन।
कथ्यमानं त्वया विप्र राज्ञां चरितमुत्तमम् ॥ 3-105-6(20167)
वैशम्पायन उवाच। 3-105-7x(2049)
एवमुक्तस्तु विप्रेन्द्रो धर्मराज्ञा महात्मना।
कथयामास माहात्म्यं सगरस्य महात्मनः ॥ 3-105-7(20168)
लोमश उवाच। 3-105-8x(2050)
इक्ष्वाकूणां कुले जातः सगरो नाम पार्थिवः।
रूपसत्वबलोपेतः स चापुत्रः प्रतापवान् ॥ 3-105-8(20169)
स हैहयान्समुत्साद्य तालजङ्घांश्च भारत।
वशे च कृत्वा राजन्यान्स्वराज्यमनुशिष्टवान् ॥ 3-105-9(20170)
तस्य भार्ये त्वभवतां रूपयौवनदर्पिते।
वैदर्भी भरतश्रेष्ठ शैव्या च भरतर्षभ ॥ 3-105-10(20171)
सपुत्रकामो नृपतिस्तप्यते स्म महत्तपः।
पत्नीभ्यां सह राजेन्द्र कैलासं गिरिमाश्रितः ॥ 3-105-11(20172)
स तप्यमानः सुमहत्तपोयोगसमन्वितः।
आससाद महात्मानं त्र्यक्षं त्रिपुरमर्दनम् ॥ 3-105-12(20173)
शंकरं भवमीशानं पिनाकिं शूलपाणिनम्।
त्र्यम्बकं शिवमुग्रेशं बहुरूपमुमापतिम् ॥ 3-105-13(20174)
स तं दृष्ट्वैव वरदं पत्नीभ्यां सहितो नृपः।
प्रणिपत्य महाबाहुः पुत्रार्थे समयाचत ॥ 3-105-14(20175)
तं प्रीतिमान्हरः प्राह सभार्यं नृपसत्तमम्।
यस्मिन्वृतो मुहूर्तेऽहं त्वयेह नृपते वरम् ॥ 3-105-15(20176)
षष्टिः पुत्रसहस्राणि शूराः परमदर्पिताः।
एकस्यां संभविष्यन्ति पत्न्यां नरवरोत्तम ॥ 3-105-16(20177)
ते चैवसर्वे सहिताः क्षयं यास्यन्ति पार्थिव।
एको वंशधरः शूर एकस्यां संभविष्यति ॥ 3-105-17(20178)
एवमुक्त्वा तु तं रुद्रस्तत्रैवान्तरधीयत।
स चापि सगरो राजा जगाम स्वं निवेशनम् ॥ 3-105-18(20179)
पत्नीभ्यां सहितस्तत्र होऽतिहृष्टमनास्तदा।
`कालं शंभुवरप्राप्तं प्रतीक्षन्सगरोऽनयत्' ॥ 3-105-19(20180)
तस्य तेमनुजश्रेष्ठ भार्ये कललोचने।
वैदर्भी चैव शैब्या च गर्भिण्यौ संबभूवतुः ॥ 3-105-20(20181)
ततः कालेन वैदर्भी गर्भालाबुं व्यजायत।
शैव्या च सुषुवे पुत्रं कुमारं देवरूपिणम् ॥ 3-105-21(20182)
तदाऽलाबुं समुत्स्रष्टुं मनश्चक्रे स पार्थिवः।
अथान्तरिक्षाच्छुश्राव वाचं गंभीरनिःस्वनाम् ॥ 3-105-22(20183)
राजन्मा साहसंकार्षीः पुत्रान्न त्यक्तुमर्हसि।
अलाबुमध्यान्निष्कृष्य वीजं यत्नेन गोप्यताम् ॥ 3-105-23(20184)
सोपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः।
ततः पुत्रसहस्राणि षष्टिं प्राप्स्यसि पार्थिव ॥ 3-105-24(20185)
महादेवेन दिष्टं ते पुत्रजन्म नराधिप।
अनेन क्रमयोगेन मा ते बुद्धिरतोऽन्यथा ॥ 3-105-25(20186)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चाधिकशततमोऽध्यायः ॥ 105 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|